हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Radha Ashtottara Shatanamavali – श्री राधा अष्टोत्तरशतनामावली
श्री राधायै नमः ।
श्री राधिकायै नमः ।
कृष्णवल्लभायै नमः ।
कृष्णसम्युक्तायै नमः ।
वृन्दावनेश्वर्यै नमः ।
कृष्णप्रियायै नमः ।
मदनमोहिन्यै नमः ।
श्रीमत्यै नमः ।
कृष्णकान्तायै नमः । ९
कृष्णानन्दप्रदायिन्यै नमः ।
यशस्विन्यै नमः ।
यशोदानन्दनवल्लभायै नमः ।
त्रैलोक्यसुन्दर्यै नमः ।
वृन्दावनविहारिण्यै नमः ।
वृषभानुसुतायै नमः ।
हेमाङ्गायै नमः ।
उज्ज्वलगात्रिकायै नमः ।
शुभाङ्गायै नमः । १८
विमलाङ्गायै नमः ।
विमलायै नमः ।
कृष्णचन्द्रप्रियायै नमः ।
रासप्रियायै नमः ।
रासाधिष्टातृदेवतायै नमः ।
रसिकायै नमः ।
रसिकानन्दायै नमः ।
रासेश्वर्ये नमः ।
रासमण्डलमध्यस्थायै नमः । २७
रासमण्डलशोभितायै नमः ।
रासमण्डलसेव्यायै नमः ।
रासक्रिडामनोहर्यै नमः ।
कृष्णप्रेमपरायणायै नमः ।
वृन्दारण्यप्रियायै नमः ।
वृन्दावनविलासिन्यै नमः ।
तुलस्यधिष्टातृदेव्यै नमः ।
करुणार्णवसम्पूर्णायै नमः ।
मङ्गलप्रदायै नमः । ३६
कृष्णभजनाश्रितायै नमः ।
गोविन्दार्पितचित्तायै नमः ।
गोविन्दप्रियकारिण्यै नमः ।
रासक्रीडाकर्यै नमः ।
रासवासिन्यै नमः ।
राससुन्दर्यै नमः ।
गोकुलत्वप्रदायिन्यै नमः ।
किशोरवल्लभायै नमः ।
कालिन्दीकुलदीपिकायै नमः । ४५
प्रेमप्रियायै नमः ।
प्रेमरूपायै नमः ।
प्रेमानन्दतरङ्गिण्यै नमः ।
प्रेमधात्र्यै नमः ।
प्रेमशक्तिमय्यै नमः ।
कृष्णप्रेमवत्यै नमः ।
कृष्णप्रेमतरङ्गिण्यै नमः ।
गौरचन्द्राननायै नमः ।
चन्द्रगात्र्यै नमः । ५४
सुकोमलायै नमः ।
रतिवेषायै नमः ।
रतिप्रियायै नमः ।
कृष्णरतायै नमः ।
कृष्णतोषणतत्परायै नमः ।
कृष्णप्रेमवत्यै नमः ।
कृष्णभक्तायै नमः ।
कृष्णप्रियभक्तायै नमः ।
कृष्णक्रीडायै नमः । ६३
प्रेमरताम्बिकायै नमः ।
कृष्णप्राणायै नमः ।
कृष्णप्राणसर्वस्वदायिन्यै नमः ।
कोटिकन्दर्पलावण्यायै नमः ।
कन्दर्पकोटिसुन्दर्यै नमः ।
लीलालावण्यमङ्गलायै नमः ।
करुणार्णवरूपिण्यै नमः ।
यमुनापारकौतुकायै नमः ।
कृष्णहास्यभाषणतत्परायै नमः । ७२
गोपाङ्गनावेष्टितायै नमः ।
कृष्णसङ्कीर्तिन्यै नमः ।
राससक्तायै नमः ।
कृष्णभाषातिवेगिन्यै नमः ।
कृष्णरागिण्यै नमः ।
भाविन्यै नमः ।
कृष्णभावनामोदायै नमः ।
कृष्णोन्मादविदायिन्यै नमः ।
कृष्णार्तकुशलायै नमः । ८१
पतिव्रतायै नमः ।
महाभावस्वरूपिण्यै नमः ।
कृष्णप्रेमकल्पलतायै नमः ।
गोविन्दनन्दिन्यै नमः ।
गोविन्दमोहिन्यै नमः ।
गोविन्दसर्वस्वायै नमः ।
सर्वकान्ताशिरोमण्यै नमः ।
कृष्णकान्ताशिरोमण्यै नमः ।
कृष्णप्राणधनायै नमः । ९०
कृष्णप्रेमानन्दामृतसिन्धवे नमः ।
प्रेमचिन्तामण्यै नमः ।
प्रेमसाध्यशिरोमण्यै नमः ।
सर्वैश्वर्यसर्वशक्तिसर्वरसपूर्णायै नमः ।
महाभावचिन्तामण्यै नमः ।
कारुण्यामृतायै नमः ।
तारुण्यामृतायै नमः ।
लावण्यामृतायै नमः ।
निजलज्जापरीधानश्यामपटुशार्यै नमः । ९९
सौन्दर्यकुङ्कुमायै नमः ।
सखीप्रणयचन्दनायै नमः ।
गन्धोन्मादितमाधवायै नमः ।
महाभावपरमोत्कर्षतर्षिण्यै नमः ।
सखीप्रणयितावशायै नमः ।
कृष्णप्रियावलीमुख्यायै नमः ।
आनन्दस्वरूपायै नमः ।
रूपगुणसौभाग्यप्रेमसर्वाधिकाराधिकायै नमः ।
एकमात्रकृष्णपरायणायै नमः । १०८
इति श्रीराधाष्टोत्तरशतनामावाली ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.